01.064
Library: Description of the forest in which Kanwa’s hermitage was located.
वैशम्पायन उवाच॥
ततो मृगसहस्राणि हत्वा विपुलवाहनः। राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥१-६४-१॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः। स वनस्यान्तमासाद्य महदीरिणमासदत् ॥१-६४-२॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्। मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥ शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥१-६४-३॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्। विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥१-६४-४॥
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्। षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥१-६४-५॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी। षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥१-६४-६॥
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च। सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ॥ मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥१-६४-७॥
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः। पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥१-६४-८॥
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः। विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥१-६४-९॥
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु। रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥१-६४-१०॥
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्। लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ॥ सम्पश्यन्स महातेजा बभूव मुदितस्तदा ॥१-६४-११॥
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः। अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥१-६४-१२॥
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः। परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥१-६४-१३॥
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः। नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥१-६४-१४॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्। आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥१-६४-१५॥
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम्। यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥१-६४-१६॥
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्। महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥१-६४-१७॥
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्। नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ॥ तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥१-६४-१८॥
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत। देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥१-६४-१९॥
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः। सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥१-६४-२०॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्। सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥१-६४-२१॥
पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम्। मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥१-६४-२२॥
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा। चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥१-६४-२३॥
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया। नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥१-६४-२४॥
मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥१-६४-२४॥
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः। अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ॥ महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥१-६४-२५॥
रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम्। अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥१-६४-२६॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्। काश्यपं स्थीयतामत्र यावदागमनं मम ॥१-६४-२७॥
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः। क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥१-६४-२८॥
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥ दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥१-६४-२९॥
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च। षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ॥१-६४-३०॥
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥१-६४-३१॥
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि। अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥१-६४-३२॥
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥१-६४-३३॥
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥१-६४-३४॥
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः। न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥१-६४-३५॥
नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥१-६४-३६॥
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः। लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥१-६४-३७॥
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्। जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥१-६४-३८॥
आसनानि विचित्राणि पुष्पवन्ति महीपतिः। प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥१-६४-३९॥
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः। ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥१-६४-४०॥
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्। नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥१-६४-४१॥
स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः। विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ॥१-६४-४२॥