Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.068
Library: Despite explaining the significance of wife and Son, Dushyanta rejects Shakuntala.
वैशम्पायन उवाच॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला। गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥१-६८-१॥
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम्। रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥१-६८-२॥
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः। तस्याथ कारयामास वर्धमानस्य धीमतः ॥१-६८-३॥
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा। चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ॥ कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥१-६८-४॥
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति। व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥१-६८-५॥
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः। आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥१-६८-६॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः। अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥१-६८-७॥
स सर्वदमनो नाम कुमारः समपद्यत। विक्रमेणौजसा चैव बलेन च समन्वितः ॥१-६८-८॥
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्। समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥१-६८-९॥
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह। शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ॥ भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥१-६८-१०॥
नारीणां चिरवासो हि बान्धवेषु न रोचते। कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥१-६८-११॥
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः। शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥१-६८-१२॥
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम्। आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥१-६८-१३॥
अभिसृत्य च राजानं विदिता सा प्रवेशिता। सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥१-६८-१४॥
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला। अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥१-६८-१५॥
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः। यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥१-६८-१६॥
यथा समागमे पूर्वं कृतः स समयस्त्वया। तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥१-६८-१७॥
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि। अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥१-६८-१८॥
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह। गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥१-६८-१९॥
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी। विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥१-६८-२०॥
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा। कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥१-६८-२१॥
आकारं गूहमाना च मन्युनाभिसमीरिता। तपसा सम्भृतं तेजो धारयामास वै तदा ॥१-६८-२२॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता। भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥१-६८-२३॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे। न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥१-६८-२४॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च। कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥१-६८-२५॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥१-६८-२६॥
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम्। यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥१-६८-२७॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति। विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥१-६८-२८॥
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥१-६८-२९॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्। हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥१-६८-३०॥
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः। तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥१-६८-३१॥
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते। देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥१-६८-३२॥
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम्। अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥१-६८-३३॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि। न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥१-६८-३४॥
यदि मे याचमानाया वचनं न करिष्यसि। दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥१-६८-३५॥
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः। जायाया इति जायात्वं पुराणाः कवयो विदुः ॥१-६८-३६॥
यदागमवतः पुंसस्तदपत्यं प्रजायते। तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥१-६८-३७॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः। तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥१-६८-३८॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती। सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥१-६८-३९॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा। भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥१-६८-४०॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः। भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥१-६८-४१॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः। पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥१-६८-४२॥
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै। यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥१-६८-४३॥
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्। भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥१-६८-४४॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते। पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥१-६८-४५॥
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते। यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥१-६८-४६॥
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः। तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥१-६८-४७॥
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्। ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥१-६८-४८॥
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः। ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥१-६८-४९॥
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः। रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥१-६८-५०॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्। ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥१-६८-५१॥
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः। पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥१-६८-५२॥
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम्। प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥१-६८-५३॥
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः। न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥१-६८-५४॥
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः। शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥१-६८-५५॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्। गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥१-६८-५६॥
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः। पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥१-६८-५७॥
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम। इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥१-६८-५८॥
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव। इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥१-६८-५९॥
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः। मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥१-६८-६०॥
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः। जातकर्मणि पुत्राणां तवापि विदितं तथा ॥१-६८-६१॥
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे। आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥१-६८-६२॥
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम्। तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥१-६८-६३॥
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः। सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥१-६८-६४॥
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते। तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥१-६८-६५॥
मृगापकृष्टेन हि ते मृगयां परिधावता। अहमासादिता राजन्कुमारी पितुराश्रमे ॥१-६८-६६॥
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका। विश्वाची च घृताची च षडेवाप्सरसां वराः ॥१-६८-६७॥
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः। दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥१-६८-६८॥
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः। अवकीर्य च मां याता परात्मजमिवासती ॥१-६८-६९॥
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि। यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥१-६८-७०॥
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्। इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥१-६८-७१॥
दुःषन्त उवाच॥
न पुत्रमभिजानामि त्वयि जातं शकुन्तले। असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥१-६८-७२॥
मेनका निरनुक्रोशा बन्धकी जननी तव। यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥१-६८-७३॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव। विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥१-६८-७४॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता। तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥१-६८-७५॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे। विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥१-६८-७६॥
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका। क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥१-६८-७७॥
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम्। कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥१-६८-७८॥
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे। यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥१-६८-७९॥
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि। नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥१-६८-८०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.