01.067
Library: Shakuntala marries Dushyanta in Gandharva form.
दुःषन्त उवाच॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे। भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥१-६७-१॥
सुवर्णमाला वासांसि कुण्डले परिहाटके। नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥१-६७-२॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च। सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥१-६७-३॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१-६७-४॥
शकुन्तलोवाच॥
फलाहारो गतो राजन्पिता मे इत आश्रमात्। तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥१-६७-५॥
दुःषन्त उवाच॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते। त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥१-६७-६॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः। आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥१-६७-७॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः। ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥१-६७-८॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः। तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥१-६७-९॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय। षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥१-६७-१०॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः। पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥१-६७-११॥
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन। अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१-६७-१२॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः। पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥१-६७-१३॥
सा त्वं मम सकामस्य सकामा वरवर्णिनि। गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥१-६७-१४॥
शकुन्तलोवाच॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम। प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥१-६७-१५॥
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः। मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥१-६७-१६॥
युवराजो महाराज सत्यमेतद्ब्रवीहि मे। यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥१-६७-१७॥
वैशम्पायन उवाच॥
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्। अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ॥ यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥१-६७-१८॥
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्। जग्राह विधिवत्पाणावुवास च तया सह ॥१-६७-१९॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः। प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥ तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥१-६७-२०॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय। मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥१-६७-२१॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति। एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥१-६७-२२॥
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्। शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥१-६७-२३॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः। उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥१-६७-२४॥
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः। पुंसा सह समायोगो न स धर्मोपघातकः ॥१-६७-२५॥
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते। सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥१-६७-२६॥
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः। अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥१-६७-२७॥
महात्मा जनिता लोके पुत्रस्तव महाबलः। य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥१-६७-२८॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः। भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥१-६७-२९॥
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्। विनिधाय ततो भारं संनिधाय फलानि च ॥१-६७-३०॥
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः। तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥१-६७-३१॥
कण्व उवाच॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि। गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥१-६७-३२॥
वैशम्पायन उवाच॥
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा। शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥१-६७-३३॥