Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.069
Library: Dushyanta accepts Shakuntala and Bharata, after he hears the voice from the sky.
शकुन्तलोवाच॥
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥१-६९-१॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्। ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥१-६९-२॥
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम्। आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥१-६९-३॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च। भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥१-६९-४॥
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ। निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥१-६९-५॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्। मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥१-६९-६॥
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते। तदेतरं विजानाति आत्मानं नेतरं जनम् ॥१-६९-७॥
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते। अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥१-६९-८॥
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥१-६९-९॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥१-६९-१०॥
अन्यान्परिवदन्साधुर्यथा हि परितप्यते। तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥१-६९-११॥
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्। एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥१-६९-१२॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः। यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥१-६९-१३॥
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते। यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥१-६९-१४॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव। अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥१-६९-१५॥
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते। तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥१-६९-१६॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्। उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥१-६९-१७॥
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान्। कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥१-६९-१८॥
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः। त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥१-६९-१९॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि। आत्मानं सत्यधर्मौ च पालयानो महीपते ॥ नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥१-६९-२०॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥१-६९-२१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥१-६९-२२॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्। सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥१-६९-२३॥
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम्। न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥१-६९-२४॥
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः। मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥१-६९-२५॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्। आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥१-६९-२६॥
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम्। चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥१-६९-२७॥
वैशम्पायन उवाच॥
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ॥ ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥१-६९-२८॥
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः। भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥१-६९-२९॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥१-६९-३०॥
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्। तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥१-६९-३१॥
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम्। शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥१-६९-३२॥
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि। तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥१-६९-३३॥
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम्। पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥१-६९-३४॥
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम्। अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥१-६९-३५॥
यद्यहं वचनादेव गृह्णीयामिममात्मजम्। भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥१-६९-३६॥
तं विशोध्य तदा राजा देवदूतेन भारत। हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥१-६९-३७॥
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे। सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ॥ स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥१-६९-३८॥
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः। अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥१-६९-३९॥
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह। तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥१-६९-४०॥
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम्। पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥१-६९-४१॥
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये। प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥१-६९-४२॥
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम्। वासोभिरन्नपानैश्च पूजयामास भारत ॥१-६९-४३॥
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा। भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥१-६९-४४॥
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः। भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥१-६९-४५॥
स विजित्य महीपालांश्चकार वशवर्तिनः। चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥१-६९-४६॥
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्। ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥१-६९-४७॥
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्। श्रीमान्गोविततं नाम वाजिमेधमवाप सः ॥ यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥१-६९-४८॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्। अपरे ये च पूर्वे च भारता इति विश्रुताः ॥१-६९-४९॥
भरतस्यान्ववाये हि देवकल्पा महौजसः। बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥१-६९-५०॥
येषामपरिमेयानि नामधेयानि सर्वशः। तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ॥ महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥१-६९-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.