01.070
Library: Lineages described, and why Puru’s name is given for the prominent one!
ययात्युपाख्यानम्
वैशम्पायन उवाच॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च। भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥०१-७०-१॥
यादवानामिमं वंशं पौरवाणां च सर्वशः। तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ॥ धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥०१-७०-२॥
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः। दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ॥ मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥०१-७०-३॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः। सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥०१-७०-४॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥०१-७०-५॥
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः। मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥०१-७०-६॥
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे। प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥०१-७०-७॥
ददौ स दश धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥०१-७०-८॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा। मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ॥ इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥०१-७०-९॥
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः। मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥०१-७०-१०॥
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः। मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥ ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥०१-७०-११॥
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम्। ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥०१-७०-१२॥
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च। करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥०१-७०-१३॥
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान्। नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥०१-७०-१४॥
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ। अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥०१-७०-१५॥
पुरूरवास्ततो विद्वानिलायां समपद्यत। सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥०१-७०-१६॥
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः। अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥०१-७०-१७॥
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥०१-७०-१८॥
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥०१-७०-१९॥
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत। लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥०१-७०-२०॥
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट्। आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥०१-७०-२१॥
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः। दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥०१-७०-२२॥
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम्। स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥०१-७०-२३॥
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः। राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥०१-७०-२४॥
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्। नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥०१-७०-२५॥
स हत्वा दस्युसङ्घातानृषीन्करमदापयत्। पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥०१-७०-२६॥
कारयामास चेन्द्रत्वमभिभूय दिवौकसः। तेजसा तपसा चैव विक्रमेणौजसा तथा ॥०१-७०-२७॥
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम्। नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥०१-७०-२८॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः। स पालयामास महीमीजे च विविधैः सवैः ॥०१-७०-२९॥
अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा। अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥०१-७०-३०॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः। देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥०१-७०-३१॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च। द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥०१-७०-३२॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्। जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥०१-७०-३३॥
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥०१-७०-३४॥
यौवनेन चरन्कामान्युवा युवतिभिः सह। विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥०१-७०-३५॥
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्। किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥०१-७०-३६॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम् ॥०१-७०-३७॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः। कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥०१-७०-३८॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥०१-७०-३९॥
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्। तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥०१-७०-४०॥
राजंश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥०१-७०-४१॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥०१-७०-४२॥
पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत् ॥०१-७०-४३॥
ततो वर्षसहस्रान्ते ययातिरपराजितः। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥०१-७०-४४॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥०१-७०-४५॥
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च। कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥०१-७०-४६॥