Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.071
जनमेजय उवाच॥
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥०१-७१-१॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम। आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥०१-७१-२॥
वैशम्पायन उवाच॥
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥०१-७१-३॥
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय। देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥०१-७१-४॥
सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥०१-७१-५॥
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥ ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥०१-७१-६॥
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान्। तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ॥ ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥०१-७१-७॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि। न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥०१-७१-८॥
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्। सञ्जीवनीं ततो देवा विषादमगमन्परम् ॥०१-७१-९॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥०१-७१-१०॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्। यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ॥ शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥०१-७१-११॥
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः। रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥०१-७१-१२॥
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्। देवयानीं च दयितां सुतां तस्य महात्मनः ॥०१-७१-१३॥
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते। शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ॥०१-७१-१४॥
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥०१-७१-१४॥
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः। तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥०१-७१-१५॥
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥०१-७१-१६॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः। नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥०१-७१-१७॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥०१-७१-१८॥
शुक्र उवाच॥
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥०१-७१-१९॥
वैशम्पायन उवाच॥
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥०१-७१-२०॥
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानीं च भारत ॥०१-७१-२१॥
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे। गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥०१-७१-२२॥
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥०१-७१-२३॥
देवयान्यपि तं विप्रं नियमव्रतचारिणम्। अनुगायमाना ललना रहः पर्यचरत्तदा ॥०१-७१-२४॥
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥०१-७१-२५॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥ हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥०१-७१-२६॥
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्। ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ॥ उवाच वचनं काले देवयान्यथ भारत ॥०१-७१-२७॥
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाश्चागता गावः कचस्तात न दृश्यते ॥०१-७१-२८॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥०१-७१-२९॥
शुक्र उवाच॥
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम्। वैशम्पायन उवाच॥
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत्। आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ॥ हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥०१-७१-३१॥
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया। वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥०१-७१-३२॥
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥०१-७१-३३॥
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत्। पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥०१-७१-३४॥
शुक्र उवाच॥
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः। विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥०१-७१-३५॥
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत्। सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ॥०१-७१-३६॥
देवयान्युवाच॥
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः। ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ॥०१-७१-३७॥
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः। कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ॥०१-७१-३८॥
शुक्र उवाच॥
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति। अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ॥ अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥०१-७१-३९॥
वैशम्पायन उवाच॥
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत्। संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥०१-७१-४०॥
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार। तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ॥०१-७१-४१॥
कच उवाच॥
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम्। न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥०१-७१-४२॥
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य। ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ॥०१-७१-४३॥
शुक्र उवाच॥
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य। नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ॥०१-७१-४४॥
देवयान्युवाच॥
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः। कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ॥०१-७१-४५॥
शुक्र उवाच॥
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी। विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ॥०१-७१-४६॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्। ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥०१-७१-४७॥
पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात। समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥०१-७१-४८॥
वैशम्पायन उवाच॥
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः। कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥०१-७१-४९॥
दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ॥०१-७१-५०॥
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम्। ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥०१-७१-५१॥
वैशम्पायन उवाच॥
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम्। दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ॥०१-७१-५२॥
समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः। काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ॥०१-७१-५३॥
यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः। अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ॥०१-७१-५४॥
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ॥०१-७१-५५॥
इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः। तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ॥०१-७१-५६॥
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥०१-७१-५७॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥०१-७१-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.