Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.072
वैशम्पायन उवाच॥
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥०१-७२-१॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च ॥०१-७२-२॥
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः। तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥०१-७२-३॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन। व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥०१-७२-४॥
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि। गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥०१-७२-५॥
कच उवाच॥
पूज्यो मान्यश्च भगवान्यथा तव पिता मम। तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥०१-७२-६॥
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः। त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥०१-७२-७॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव। देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥०१-७२-८॥
देवयान्युवाच॥
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः। तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥०१-७२-९॥
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः। तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥०१-७२-१०॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥०१-७२-११॥
कच उवाच॥
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते। प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥०१-७२-१२॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने। तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥०१-७२-१३॥
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने। सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥०१-७२-१४॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ॥ अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥०१-७२-१५॥
देवयान्युवाच॥
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः। ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥०१-७२-१६॥
कच उवाच॥
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः। गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥०१-७२-१७॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया। शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥०१-७२-१८॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥०१-७२-१९॥
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥०१-७२-२०॥
वैशम्पायन उवाच॥
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥०१-७२-२१॥
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः। बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥०१-७२-२२॥
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम्। न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥०१-७२-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.