Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.073
वैशम्पायन उवाच॥
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः। कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥०१-७३-१॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन्। कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥०१-७३-२॥
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा। तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥०१-७३-३॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे। वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥०१-७३-४॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा। वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥०१-७३-५॥
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा। व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥०१-७३-६॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत। देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥०१-७३-७॥
देवयान्युवाच॥
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि। समुदाचारहीनाया न ते श्रेयो भविष्यति ॥०१-७३-८॥
शर्मिष्ठोवाच॥
आसीनं च शयानं च पिता ते पितरं मम। स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥०१-७३-९॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥०१-७३-१०॥
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि। लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥०१-७३-११॥
वैशम्पायन उवाच॥
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि। शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥०१-७३-१२॥
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया। अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥०१-७३-१३॥
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः। श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥०१-७३-१४॥
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्। ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥०१-७३-१५॥
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्। सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥०१-७३-१६॥
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला। दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥०१-७३-१७॥
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते। दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥०१-७३-१८॥
देवयान्युवाच॥
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया। तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥०१-७३-१९॥
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः। समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥०१-७३-२०॥
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्। तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥०१-७३-२१॥
वैशम्पायन उवाच॥
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः। गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥०१-७३-२२॥
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः। आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥०१-७३-२३॥
देवयान्युवाच॥
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः। नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥०१-७३-२४॥
वैशम्पायन उवाच॥
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्। दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥०१-७३-२५॥
आचक्षे ते महाप्राज्ञ देवयानी वने हता। शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥०१-७३-२६॥
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्। त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥०१-७३-२७॥
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने। बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥०१-७३-२८॥
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः। मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥०१-७३-२९॥
देवयान्युवाच॥
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम। शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥ सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥०१-७३-३०॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥०१-७३-३१॥
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥०१-७३-३२॥
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥०१-७३-३३॥
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥०१-७३-३४॥
शुक्र उवाच॥
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः। अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥०१-७३-३५॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः। अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥०१-७३-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.