01.074
शुक्र उवाच॥
यः परेषां नरो नित्यमतिवादांस्तितिक्षति। देवयानि विजानीहि तेन सर्वमिदं जितम् ॥०१-७४-१॥
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा। स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥०१-७४-२॥
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति। देवयानि विजानीहि तेन सर्वमिदं जितम् ॥०१-७४-३॥
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥०१-७४-४॥
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति। यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥०१-७४-५॥
यो यजेदपरिश्रान्तो मासि मासि शतं समाः। न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥०१-७४-६॥
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः। न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥०१-७४-७॥
देवयान्युवाच॥
वेदाहं तात बालापि धर्माणां यदिहान्तरम्। अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥०१-७४-८॥
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता। तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥०१-७४-९॥
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च। न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥०१-७४-१०॥
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च। तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥०१-७४-११॥
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः। न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ॥ यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥०१-७४-१२॥