Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.075
वैशम्पायन उवाच॥
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह। वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥०१-७५-१॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव। पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ॥ फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥०१-७५-२॥
यदघातयथा विप्रं कचमाङ्गिरसं तदा। अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥०१-७५-३॥
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम। वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ॥ स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥०१-७५-४॥
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्। यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥०१-७५-५॥
वृषपर्वोवाच॥
नाधर्मं न मृषावादं त्वयि जानामि भार्गव। त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥०१-७५-६॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव। समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ॥०१-७५-७॥
शुक्र उवाच॥
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः। दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥०१-७५-८॥
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम्। योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥०१-७५-९॥
वृषपर्वोवाच॥
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव। भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥०१-७५-१०॥
शुक्र उवाच॥
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥०१-७५-११॥
देवयान्युवाच॥
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव। नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥०१-७५-१२॥
वृषपर्वोवाच॥
यं काममभिकामासि देवयानि शुचिस्मिते। तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ॥०१-७५-१३॥
देवयान्युवाच॥
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये। अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥०१-७५-१४॥
वृषपर्वोवाच॥
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय। यं च कामयते कामं देवयानी करोतु तम् ॥०१-७५-१५॥
वैशम्पायन उवाच॥
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्। उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥०१-७५-१६॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः। सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥०१-७५-१७॥
शर्मिष्ठोवाच॥
सा यं कामयते कामं करवाण्यहमद्य तम्। मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥०१-७५-१८॥
वैशम्पायन उवाच॥
ततः कन्यासहस्रेण वृता शिबिकया तदा। पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥०१-७५-१९॥
शर्मिष्ठोवाच॥
अहं कन्यासहस्रेण दासी ते परिचारिका। अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥०१-७५-२०॥
देवयान्युवाच॥
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः। स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥०१-७५-२१॥
शर्मिष्ठोवाच॥
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्। अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥०१-७५-२२॥
वैशम्पायन उवाच॥
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः। देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥०१-७५-२३॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम। अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥०१-७५-२४॥
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः। प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥०१-७५-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.