01.076
वैशम्पायन उवाच॥
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम। वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥०१-७६-१॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा। तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥ ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥०१-७६-२॥
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्। खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥०१-७६-३॥
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया। तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥०१-७६-४॥
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः। पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥०१-७६-५॥
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्। रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ॥ शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥०१-७६-६॥
ययातिरुवाच॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते। गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥०१-७६-७॥
देवयान्युवाच॥
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप। शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥०१-७६-८॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी। दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥०१-७६-९॥
ययातिरुवाच॥
कथं नु ते सखी दासी कन्येयं वरवर्णिनी। असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥०१-७६-१०॥
देवयान्युवाच॥
सर्व एव नरव्याघ्र विधानमनुवर्तते। विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥०१-७६-११॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च। किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥०१-७६-१२॥
ययातिरुवाच॥
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः। राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥०१-७६-१३॥
देवयान्युवाच॥
केनास्यर्थेन नृपते इमं देशमुपागतः। जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥०१-७६-१४॥
ययातिरुवाच॥
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः। बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥०१-७६-१५॥
देवयान्युवाच॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह। त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥०१-७६-१६॥
ययातिरुवाच॥
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि। अविवाह्या हि राजानो देवयानि पितुस्तव ॥०१-७६-१७॥
देवयान्युवाच॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्। ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥०१-७६-१८॥
ययातिरुवाच॥
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने। पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥०१-७६-१९॥
देवयान्युवाच॥
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा। तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥०१-७६-२०॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्। गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥०१-७६-२१॥
ययातिरुवाच॥
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्रः पुरुषेण विजानता ॥०१-७६-२२॥
देवयान्युवाच॥
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥०१-७६-२३॥
ययातिरुवाच॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते। हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥०१-७६-२४॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम। अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥०१-७६-२५॥
देवयान्युवाच॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया। अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥०१-७६-२६॥
वैशम्पायन उवाच॥
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः। श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥०१-७६-२७॥
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः। ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥०१-७६-२८॥
देवयान्युवाच॥
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्। नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥०१-७६-२९॥
शुक्र उवाच॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया। गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥०१-७६-३०॥
ययातिरुवाच॥
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव। वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥०१-७६-३१॥
शुक्र उवाच॥
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्। अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥०१-७६-३२॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्। अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥०१-७६-३३॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी। सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥०१-७६-३४॥
वैशम्पायन उवाच॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्। जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥०१-७६-३५॥