01.077
वैशम्पायन उवाच॥
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्। प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥०१-७७-१॥
देवयान्याश्चानुमते तां सुतां वृषपर्वणः। अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥०१-७७-२॥
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्। वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥०१-७७-३॥
देवयान्या तु सहितः स नृपो नहुषात्मजः। विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥०१-७७-४॥
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना। लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥०१-७७-५॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी। ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥०१-७७-६॥
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः। किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥०१-७७-७॥
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना। यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥०१-७७-८॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः। अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥०१-७७-९॥
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया। अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥०१-७७-१०॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी। प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥०१-७७-११॥
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा। तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥०१-७७-१२॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा। सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥०१-७७-१३॥
ययातिरुवाच॥
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम्। रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥०१-७७-१४॥
अब्रवीदुशना काव्यो देवयानीं यदावहम्। नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥०१-७७-१५॥
शर्मिष्ठोवाच॥
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥०१-७७-१६॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र। एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥०१-७७-१७॥
ययातिरुवाच॥
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्। अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥०१-७७-१८॥
शर्मिष्ठोवाच॥
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः। समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥०१-७७-१९॥
ययातिरुवाच॥
दातव्यं याचमानेभ्य इति मे व्रतमाहितम्। त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥०१-७७-२०॥
शर्मिष्ठोवाच॥
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय। त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥०१-७७-२१॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः। यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥०१-७७-२२॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी। सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥०१-७७-२३॥
वैशम्पायन उवाच॥
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान्। पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥०१-७७-२४॥
समागम्य च शर्मिष्ठां यथाकाममवाप्य च। अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥०१-७७-२५॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी। लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥०१-७७-२६॥
प्रजज्ञे च ततः काले राजन्राजीवलोचना। कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥०१-७७-२७॥