01.078
वैशम्पायन उवाच॥
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता। चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥०१-७८-१॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्। किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥०१-७८-२॥
शर्मिष्ठोवाच॥
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः। स मया वरदः कामं याचितो धर्मसंहितम् ॥०१-७८-३॥
नाहमन्यायतः काममाचरामि शुचिस्मिते। तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥०१-७८-४॥
देवयान्युवाच॥
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः। गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥०१-७८-५॥
शर्मिष्ठोवाच॥
ओजसा तेजसा चैव दीप्यमानं रविं यथा। तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥०१-७८-६॥
देवयान्युवाच॥
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम। अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥०१-७८-७॥
वैशम्पायन उवाच॥
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः। जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥०१-७८-८॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः। यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥०१-७८-९॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी। द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥०१-७८-१०॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता। ययातिसहिता राजन्निर्जगाम महावनम् ॥०१-७८-११॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः। क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥०१-७८-१२॥
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः। वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥०१-७८-१३॥
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत। किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ॥ विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥०१-७८-१४॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥०१-७८-१५॥
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥ रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥०१-७८-१६॥
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति। बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥०१-७८-१७॥
मदधीना सती कस्मादकार्षीर्विप्रियं मम। तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥०१-७८-१८॥
शर्मिष्ठोवाच॥
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥०१-७८-१९॥
यदा त्वया वृतो राजा वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥०१-७८-२०॥
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी। त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥०१-७८-२१॥
वैशम्पायन उवाच॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्। राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥०१-७८-२२॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्। त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥०१-७८-२३॥
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः। न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥०१-७८-२४॥
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना। अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥०१-७८-२५॥
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता। अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥०१-७८-२६॥
देवयान्युवाच॥
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥०१-७८-२७॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना। दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥०१-७८-२८॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह। अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥०१-७८-२९॥
शुक्र उवाच॥
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्। तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥०१-७८-३०॥
ययातिरुवाच॥
ऋतुं वै याचमानाया भगवन्नान्यचेतसा। दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥०१-७८-३१॥
ऋतुं वै याचमानाया न ददाति पुमान्वृतः। भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥०१-७८-३२॥
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः। नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥०१-७८-३३॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह। अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥०१-७८-३४॥
शुक्र उवाच॥
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव। मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥०१-७८-३५॥
वैशम्पायन उवाच॥
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा। पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥०१-७८-३६॥
ययातिरुवाच॥
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह। प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥०१-७८-३७॥
शुक्र उवाच॥
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप। जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥०१-७८-३८॥
ययातिरुवाच॥
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा। यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥०१-७८-३९॥
शुक्र उवाच॥
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज। मामनुध्याय भावेन न च पापमवाप्स्यसि ॥०१-७८-४०॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति। आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥०१-७८-४१॥