01.079
वैशम्पायन उवाच॥
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह। पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥०१-७९-१॥
जरा वली च मां तात पलितानि च पर्यगुः। काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥०१-७९-२॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन त्वदीयेन चरेयं विषयानहम् ॥०१-७९-३॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्। दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥०१-७९-४॥
यदुरुवाच॥
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः। वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥०१-७९-५॥
अशक्तः कार्यकरणे परिभूतः स यौवनैः। सहोपजीविभिश्चैव तां जरां नाभिकामये ॥०१-७९-६॥
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥०१-७९-७॥
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥०१-७९-८॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥०१-७९-९॥
तुर्वसुरुवाच॥
न कामये जरां तात कामभोगप्रणाशिनीम्। बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥०१-७९-१०॥
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥०१-७९-११॥
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च। पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥०१-७९-१२॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च। पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥०१-७९-१३॥
वैशम्पायन उवाच॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥०१-७९-१४॥
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥०१-७९-१५॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥०१-७९-१६॥
द्रुह्युरुवाच॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥०१-७९-१७॥
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥०१-७९-१८॥
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति। अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥०१-७९-१९॥
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥०१-७९-२०॥
अनुरुवाच॥
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा। न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥०१-७९-२१॥
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥०१-७९-२२॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥०१-७९-२३॥
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि। जरा वली च मे तात पलितानि च पर्यगुः ॥ काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥०१-७९-२४॥
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥०१-७९-२५॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥०१-७९-२६॥
वैशम्पायन उवाच॥
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा। यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥०१-७९-२७॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥०१-७९-२८॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥०१-७९-२९॥
ययातिरुवाच॥
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥०१-७९-३०॥