01.080
वैशम्पायन उवाच॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः। प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥०१-८०-१॥
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥०१-८०-२॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि। दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥०१-८०-३॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥०१-८०-४॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः ॥०१-८०-५॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥०१-८०-६॥
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥०१-८०-७॥
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्। पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥०१-८०-८॥
यथाकामं यथोत्साहं यथाकालमरिंदम। सेविता विषयाः पुत्र यौवनेन मया तव ॥०१-८०-९॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्। राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥०१-८०-१०॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥०१-८०-११॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥०१-८०-१२॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥०१-८०-१३॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥०१-८०-१४॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति। एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥०१-८०-१५॥
ययातिरुवाच॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः। ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥०१-८०-१६॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः। प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥०१-८०-१७॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः। स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥०१-८०-१८॥
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥०१-८०-१९॥
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः। कनीयान्मम दायादो जरा येन धृता मम ॥ मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥०१-८०-२०॥
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्। पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ॥ भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥०१-८०-२१॥
प्रकृतय ऊचुः॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा। सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥०१-८०-२२॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥०१-८०-२३॥
वैशम्पायन उवाच॥
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥०१-८०-२४॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः। पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥०१-८०-२५॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः। द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥०१-८०-२६॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥०१-८०-२७॥