Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.081
उत्तरयायातम्
वैशम्पायन उवाच॥
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्। राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥०१-८१-१॥
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः। फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥०१-८१-२॥
स गतः सुरवासं तं निवसन्मुदितः सुखम्। कालस्य नातिमहतः पुनः शक्रेण पातितः ॥०१-८१-३॥
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्। स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥०१-८१-४॥
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः। राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥ प्रतर्दनेन शिबिना समेत्य किल संसदि ॥०१-८१-५॥
जनमेजय उवाच॥
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः। सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ॥ कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥०१-८१-६॥
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः। वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥०१-८१-७॥
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः। चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥०१-८१-८॥
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्। दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥०१-८१-९॥
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्। राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥०१-८१-१०॥
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान्। फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥०१-८१-११॥
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः। अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥०१-८१-१२॥
अतिथीन्पूजयामास वन्येन हविषा विभुः। शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥०१-८१-१३॥
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः। अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥०१-८१-१४॥
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः। पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥०१-८१-१५॥
एकपादस्थितश्चासीत्षण्मासाननिलाशनः। पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥०१-८१-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.