Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.082
वैशम्पायन उवाच॥
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि। पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥०१-८२-१॥
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी। अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥०१-८२-२॥
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्। कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥०१-८२-३॥
शक्र उवाच॥
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ। तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम्॥०१-८२-४॥
ययातिरुवाच॥
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव। मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥०१-८२-५॥
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥०१-८२-६॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥०१-८२-७॥
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥०१-८२-८॥
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥०१-८२-९॥
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्। सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ॥०१-८२-१०॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि। परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥०१-८२-११॥
न हीदृशं संवननं त्रिषु लोकेषु विद्यते। यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥०१-८२-१२॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्। पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥०१-८२-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.