Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.083
इन्द्र उवाच॥
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि। तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ॥०१-८३-१॥
ययातिरुवाच॥
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु। आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥०१-८३-२॥
इन्द्र उवाच॥
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः। तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ॥०१-८३-३॥
ययातिरुवाच॥
सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः। इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ॥०१-८३-४॥
इन्द्र उवाच॥
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः। एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ॥०१-८३-५॥
वैषम्पायन उवाच॥
ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम्। सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ॥०१-८३-६॥
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः। पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ॥०१-८३-७॥
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम्। किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥०१-८३-८॥
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम्। अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥०१-८३-९॥
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः। तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥०१-८३-१०॥
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप। त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ॥०१-८३-११॥
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प। ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥०१-८३-१२॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः। प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥०१-८३-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.