01.084
ययातिरुवाच॥
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्। प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ॥०१-८४-१॥
अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे। यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥०१-८४-२॥
अष्टक उवाच॥
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित्। यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥०१-८४-३॥
ययातिरुवाच॥
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम्। सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ॥०१-८४-४॥
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि। एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥०१-८४-५॥
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः। तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥०१-८४-६॥
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या। तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥०१-८४-७॥
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः। दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥०१-८४-८॥
भये न मुह्याम्यष्टकाहं कदा चित्; सन्तापो मे मानसो नास्ति कश्चित्। धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥०१-८४-९॥
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः। तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥०१-८४-१०॥
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम्। किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥०१-८४-११॥
अष्टक उवाच॥
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च। तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥०१-८४-१२॥
ययातिरुवाच॥
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै। तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥०१-८४-१३॥
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥०१-८४-१४॥
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम्। तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥०१-८४-१५॥
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम्। सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥०१-८४-१६॥
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥०१-८४-१७॥
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥०१-८४-१८॥
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ॥०१-८४-१९॥
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥०१-८४-२०॥
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि। हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥०१-८४-२१॥