Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.085
अष्टक उवाच॥
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्। किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ॥०१-८५-१॥
ययातिरुवाच॥
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि। तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥०१-८५-२॥
अष्टक उवाच॥
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम्। किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥०१-८५-३॥
ययातिरुवाच॥
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे। ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥०१-८५-४॥
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म। आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ॥०१-८५-५॥
अष्टक उवाच॥
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः। कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ॥०१-८५-६॥
ययातिरुवाच॥
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति। इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ॥०१-८५-७॥
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि। तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥०१-८५-८॥
अष्टक उवाच॥
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः। कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ॥०१-८५-९॥
ययातिरुवाच॥
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम्। स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥०१-८५-१०॥
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम्। चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ॥०१-८५-११॥
अष्टक उवाच॥
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति। आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ॥०१-८५-१२॥
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम्। एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥०१-८५-१३॥
ययातिरुवाच॥
वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम्। स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ॥०१-८५-१४॥
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः। स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥०१-८५-१५॥
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम्। इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ॥०१-८५-१६॥
अष्टक उवाच॥
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा। अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ॥०१-८५-१७॥
ययातिरुवाच॥
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च। अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥०१-८५-१८॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति। कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥०१-८५-१९॥
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति। आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ॥०१-८५-२०॥
अष्टक उवाच॥
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा। तन्मे पृष्टः शंस सर्वं यथाव; ч्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥०१-८५-२१॥
ययातिरुवाच॥
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा। नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥०१-८५-२२॥
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्। तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ॥०१-८५-२३॥
चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ॥०१-८५-२४॥
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात्। सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ॥०१-८५-२५॥
इति दद्यादिति यजेदित्यधीयीत मे व्रतम्। इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥०१-८५-२६॥
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम्। तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥०१-८५-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.