01.086
अष्टक उवाच॥
चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा। वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥०१-८६-१॥
ययातिरुवाच॥
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी। मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥०१-८६-२॥
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च। अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥०१-८६-३॥
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी। तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥०१-८६-४॥
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः। अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ॥०१-८६-५॥
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च। तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ॥०१-८६-६॥
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम्। अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥०१-८६-७॥
अष्टक उवाच॥
कति स्विदेव मुनयो मौनानि कति चाप्युत। भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥०१-८६-८॥
ययातिरुवाच॥
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥०१-८६-९॥
अष्टक उवाच॥
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥०१-८६-१०॥
ययातिरुवाच॥
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्। तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥०१-८६-११॥
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः। कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥०१-८६-१२॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्। तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥०१-८६-१३॥
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः। आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥०१-८६-१४॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्। असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥०१-८६-१५॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः। यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ॥०१-८६-१६॥
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥०१-८६-१६॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः। अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥०१-८६-१७॥