Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.087
अष्टक उवाच॥
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्। उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥०१-८७-१॥
ययातिरुवाच॥
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः। ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥०१-८७-२॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्। तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥०१-८७-३॥
यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः। अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ॥०१-८७-४॥
अष्टक उवाच॥
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः। कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ॥०१-८७-५॥
ययातिरुवाच॥
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः। उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ॥०१-८७-६॥
सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे। शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ॥०१-८७-७॥
अष्टक उवाच॥
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥०१-८७-८॥
ययातिरुवाच॥
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च। तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ॥०१-८७-९॥
अष्टक उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति। यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ॥०१-८७-१०॥
ययातिरुवाच॥
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य। यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ॥०१-८७-११॥
नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी। सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ॥०१-८७-१२॥
प्रतर्दन उवाच॥
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥०१-८७-१३॥
ययातिरुवाच॥
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि। मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ॥०१-८७-१४॥
प्रतर्दन उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु। यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ॥०१-८७-१५॥
ययातिरुवाच॥
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्। दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ॥०१-८७-१६॥
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः। न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ॥०१-८७-१७॥
कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु। ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ॥०१-८७-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.