01.088
वसुमना उवाच॥
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र। यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥०१-८८-१॥
ययातिरुवाच॥
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च। लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ॥०१-८८-२॥
वसुमना उवाच॥
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु। क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥०१-८८-३॥
ययातिरुवाच॥
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः। कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ॥०१-८८-४॥
वसुमना उवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते। अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ॥०१-८८-५॥
शिबिरुवाच॥
पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥०१-८८-६॥
ययातिरुवाच॥
न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र। तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ॥०१-८८-७॥
शिबिरुवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते। न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ॥०१-८८-८॥
ययातिरुवाच॥
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः। तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ॥०१-८८-९॥
अष्टक उवाच॥
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि। सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥०१-८८-१०॥
ययातिरुवाच॥
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः। अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥०१-८८-११॥
अष्टक उवाच॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥०१-८८-१२॥
ययातिरुवाच॥
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥०१-८८-१३॥
अष्टक उवाच॥
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा। वयमप्यनुयास्यामो यदा कालो भविष्यति ॥०१-८८-१४॥
ययातिरुवाच॥
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम्। एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥०१-८८-१५॥
वैशम्पायन उवाच॥
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः। आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥०१-८८-१६॥
अष्टक उवाच॥
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा। कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ॥०१-८८-१७॥
ययातिरुवाच॥
अददाद्देवयानाय यावद्वित्तमविन्दत। उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥०१-८८-१८॥
दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा। राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ॥ एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ॥०१-८८-१९॥
वैशम्पायन उवाच॥
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम्। पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ॥ कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥०१-८८-२०॥
ययातिरुवाच॥
ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम्। गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ॥०१-८८-२१॥
सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः। मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ॥०१-८८-२२॥
अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य। गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ॥०१-८८-२३॥
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु। न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ॥ सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥०१-८८-२४॥
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्। अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥०१-८८-२५॥
वैशम्पायन उवाच॥
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः। त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥०१-८८-२६॥