Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.089
संभवपर्व
जनमेजय उवाच॥
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान्। यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥०१-८९-१॥
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः। प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥०१-८९-२॥
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्। चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥०१-८९-३॥
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥०१-८९-४॥
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः। पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥०१-८९-५॥
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः। पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥०१-८९-६॥
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः। मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥०१-८९-७॥
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः। यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ॥ सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥०१-८९-८॥
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान्। स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥०१-८९-९॥
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः। धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ॥ अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥०१-८९-१०॥
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत्। मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ॥ तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥०१-८९-११॥
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्। आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥०१-८९-१२॥
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान्। सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥०१-८९-१३॥
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः। इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥०१-८९-१४॥
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च। तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥०१-८९-१५॥
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः। तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥०१-८९-१६॥
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत्। नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥०१-८९-१७॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा। लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥०१-८९-१८॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः। भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥०१-८९-१९॥
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत्। ततः स वितथो नाम भुमन्योरभवत्सुतः ॥०१-८९-२०॥
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा। पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥०१-८९-२१॥
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्। राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥०१-८९-२२॥
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम्। पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥०१-८९-२३॥
ममज्जेव मही तस्य भूरिभारावपीडिता। हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ॥०१-८९-२४॥
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः। चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ॥ प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥०१-८९-२५॥
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत ॥०१-८९-२६॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः। षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥०१-८९-२७॥
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ। केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥०१-८९-२८॥
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥०१-८९-२९॥
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥०१-८९-३०॥
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्। सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥०१-८९-३१॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥ अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥०१-८९-३२॥
चालयन्वसुधां चैव बलेन चतुरङ्गिणा। अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ॥ अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥०१-८९-३३॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः। राजा संवरणस्तस्मात्पलायत महाभयात् ॥०१-८९-३४॥
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा। नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥ तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥०१-८९-३५॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान्। अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥०१-८९-३६॥
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च। अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ॥ निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥०१-८९-३७॥
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा। पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ॥ ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥०१-८९-३८॥
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम्। विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥०१-८९-३९॥
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम्। पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥०१-८९-४०॥
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः। आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥०१-८९-४१॥
ततः संवरणात्सौरी सुषुवे तपती कुरुम्। राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥०१-८९-४२॥
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम्। कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥०१-८९-४३॥
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम्। जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ॥ पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥०१-८९-४४॥
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान्। अभिराजो विराजश्च शल्मलश्च महाबलः ॥०१-८९-४५॥
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः। एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥०१-८९-४६॥
जनमेजयादयः सप्त तथैवान्ये महाबलाः। परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥०१-८९-४७॥
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान्। इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥०१-८९-४८॥
जनमेजयस्य तनया भुवि ख्याता महाबलाः। धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥०१-८९-४९॥
निषधश्च महातेजास्तथा जाम्बूनदो बली। कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ॥ सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥०१-८९-५०॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः। हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ॥ हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥०१-८९-५१॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ। देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥०१-८९-५२॥
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया। शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥०१-८९-५३॥
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः। देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥०१-८९-५४॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः। जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥०१-८९-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.