01.090
जनमेजय उवाच॥
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान्।उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥०१-९०-१॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति।प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥०१-९०-२॥
एतामेव कथां दिव्यामा प्रजापतितो मनोः।तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥०१-९०-३॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्।विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥०१-९०-४॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्।न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥०१-९०-५॥
वैशम्पायन उवाच॥
शृणु राजन् पुरा सम्यङ् मया द्वैपायनात् श्रुतम्। प्रोच्यमानम् इदं कृत्स्नं स्ववंशजननं शुभम् ॥०१-९०-६॥
दक्षस्यादितिः।अदितेर्विवस्वान्।विवस्वतो मनुः।मनोरिला।इलायाः पुरूरवाः।पुरूरवस आयुः।आयुषो नहुषः।नहुषस्य ययातिः॥०१-९०-००७॥
ययातेर्द्वे भार्ये बभूवतुः।उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम।अत्रानुवंशो भवति॥०१-९०-००८॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥०१-९०-९॥
तत्र यदोर्यादवाः।पूरोः पौरवाः॥०१-९०-०१०॥
पूरोर्भार्या कौसल्या नाम।तस्यामस्य जज्ञे जनमेजयो नाम।यस्त्रीनश्वमेधानाजहार।विश्वजिता चेष्ट्वा वनं प्रविवेश॥०१-९०-०११॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्।तस्यामस्य जज्ञे प्राचिन्वान्।यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्।ततस्तस्य प्राचिन्वत्वम्॥०१-९०-०१२॥
प्राचिन्वान्खल्वश्मकीमुपयेमे।तस्यामस्य जज्ञे संयातिः॥०१-९०-०१३॥
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे।तस्यामस्य जज्ञे अहम्पातिः॥०१-९०-०१४॥
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम।तस्यामस्य जज्ञे सार्वभौमः॥०१-९०-०१५॥
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम।तस्यामस्य जज्ञे जयत्सेनः॥०१-९०-०१६॥
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम।तस्यामस्य जज्ञे अराचीनः॥०१-९०-०१७॥
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम।तस्यामस्य जज्ञे महाभौमः॥०१-९०-०१८॥
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम।तस्यामस्य जज्ञे अयुतनायी।यः पुरुषमेधानामयुतमानयत्।तदस्यायुतनायित्वम्॥०१-९०-०१९॥
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम।तस्यामस्य जज्ञे अक्रोधनः॥०१-९०-०२०॥
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे।तस्यामस्य जज्ञे देवातिथिः॥०१-९०-०२१॥
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम।तस्यामस्य जज्ञे ऋचः॥०१-९०-०२२॥
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम।तस्यां पुत्रमजनयदृक्षम्॥०१-९०-०२३॥
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम।तस्यां पुत्रं मतिनारं नामोत्पादयामास॥०१-९०-०२४॥
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार॥०१-९०-०२५॥
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास।तस्यां पुत्रमजनयत्तंसुं नाम॥०१-९०-०२६॥
अत्रानुवंशो भवति॥०१-९०-०२७॥
तंसुं सरस्वती पुत्रं मतिनारादजीजनत्।इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥०१-९०-२८॥
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत्॥०१-९०-०२९॥
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे।तस्यामस्य जज्ञे भरतः।तत्र श्लोकौ भवतः॥०१-९०-०३०॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥०१-९०-३१॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥०१-९०-३२॥
ततोऽस्य भरतत्वम्॥०१-९०-०३३॥
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम।तस्यामस्य जज्ञे भुमन्युः॥०१-९०-०३४॥
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम।तस्यामस्य जज्ञे सुहोत्रः॥०१-९०-०३५॥
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम।तस्यामस्य जज्ञे हस्ती।य इदं हास्तिनपुरं मापयामास।एतदस्य हास्तिनपुरत्वम्॥०१-९०-०३६॥
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम।तस्यामस्य जज्ञे विकुण्ठनः॥०१-९०-०३७॥
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम।तस्यामस्य जज्ञेऽजमीढः॥०१-९०-०३८॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति।पृथक्पृथग्वंशकरा नृपतयः।तत्र वंशकरः संवरणः॥०१-९०-०३९॥
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे।तस्यामस्य जज्ञे कुरुः॥०१-९०-०४०॥
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम।तस्यामस्य जज्ञे विडूरथः॥०१-९०-०४१॥
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम।तस्यामस्य जज्ञेऽरुग्वान्नाम॥०१-९०-०४२॥
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम।तस्यामस्य जज्ञे परिक्षित्॥०१-९०-०४३॥
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम।तस्यामस्य जज्ञे भीमसेनः॥०१-९०-०४४॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम।तस्यामस्य जज्ञे पर्यश्रवाः।
यमाहुः प्रतीपं नाम॥०१-९०-०४५॥
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम।तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति॥०१-९०-०४६॥
देवापिः खलु बाल एवारण्यं प्रविवेश।शन्तनुस्तु महीपालोऽभवत्।अत्रानुवंशो भवति॥०१-९०-०४७॥
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते।पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥०१-९०-४८॥
तदस्य शन्तनुत्वम्॥०१-९०-०४९॥
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे।तस्यामस्य जज्ञे देवव्रतः।यमाहुर्भीष्म इति॥०१-९०-०५०॥
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्।यामाहुर्गन्धकालीति॥०१-९०-०५१॥
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः।तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः।चित्राङ्गदो विचित्रवीर्यश्च॥०१-९०-०५२॥
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः।विचित्रवीर्यस्तु राजा समभवत्॥०१-९०-०५३॥
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे॥०१-९०-०५४॥
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः॥०१-९०-०५५॥
ततः सत्यवती चिन्तयामास।दौःषन्तो वंश उच्छिद्यते इति॥०१-९०-०५६॥
सा द्वैपायनमृषिं चिन्तयामास॥०१-९०-०५७॥
स तस्याः पुरतः स्थितः किं करवाणीति॥०१-९०-०५८॥
सा तमुवाच।भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः।साध्वपत्यं तस्योत्पादयेति॥०१-९०-०५९॥
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति॥०१-९०-०६०॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य॥०१-९०-०६१॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति॥०१-९०-०६२॥
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने॥०१-९०-०६३॥
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्। तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान॥०१-९०-०६४॥
स बाणविद्ध उवाच पाण्डुम्।चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति॥०१-९०-०६५॥
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये॥०१-९०-०६६॥
वाक्यं चोवाच।स्वचापल्यादिदं प्राप्तवानहम्।शृणोमि च नानपत्यस्य लोका सन्तीति॥०१-९०-०६७॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच॥०१-९०-०६८॥
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति॥०१-९०-०६९॥
स तां हृष्टरूपः पाण्डुरुवाच।इयं ते सपत्न्यनपत्या।साध्वस्यामपत्यमुत्पाद्यतामिति॥०१-९०-०७०॥
स एवमस्त्वित्युक्तः कुन्त्या॥०१-९०-०७१॥
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ॥०१-९०-०७२॥
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे॥०१-९०-०७३॥स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः॥०१-९०-०७४॥
तत्रैनं चितास्थं माद्री समन्वारुरोह॥०१-९०-०७५॥
उवाच कुन्तीम्।यमयोरार्ययाप्रमत्तया भवितव्यमिति॥०१-९०-०७६॥
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः॥०१-९०-०७७॥
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन॥०१-९०-०७८॥
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः॥०१-९०-०७९॥
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः॥०१-९०-०८०॥
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः॥०१-९०-०८१॥
पुत्रांश्चोत्पादयामासुः।प्रतिविन्ध्यं युधिष्ठिरः।सुतसोमं वृकोदरः।श्रुतकीर्तिमर्जुनः।शतानीकं नकुलः।श्रुतकर्माणं सहदेव इति॥०१-९०-०८२॥
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे।तस्यां पुत्रं जनयामास यौधेयं नाम॥०१-९०-०८३॥
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्।तस्यां पुत्रं सर्वगं नामोत्पादयामास॥०१-९०-०८४॥
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्।तस्यां पुत्रमभिमन्युं नाम जनयामास॥०१-९०-०८५॥
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्।तस्यां पुत्रं निरमित्रं नामाजनयत्॥०१-९०-०८६॥
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे।तस्यां पुत्रमजनयत्सुहोत्रं नाम॥०१-९०-०८७॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास॥०१-९०-०८८॥
इत्येते एकादश पाण्डवानां पुत्राः॥०१-९०-०८९॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे।तस्यामस्य परासुर्गर्भोऽजायत॥०१-९०-०९०॥
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य।षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति॥०१-९०-०९१॥
सञ्जीवयित्वा चैनमुवाच।परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति॥०१-९०-०९२॥
परिक्षित्तु खलु माद्रवतीं नामोपयेमे।तस्यामस्य जनमेजयः॥०१-९०-०९३॥
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च॥०१-९०-०९४॥
शतानीकस्तु खलु वैदेहीमुपयेमे।तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः॥०१-९०-०९५॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः।पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥०१-९०-९६॥