Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.061
Pancharatra-Ext:Background deities and demons for each of the characters in the Mahabharata war is given.
जनमेजय उवाच॥
देवानां दानवानां च यक्षाणामथ रक्षसाम्। अन्येषां चैव भूतानां सर्वेषां भगवन्नहम्॥१-०६१-१॥
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥१-०६१-२॥
वैशम्पायन उवाच॥
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः। प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः॥१-०६१-३॥
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥१-०६१-४॥
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥१-०६१-५॥
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः॥१-०६१-६॥
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः॥१-०६१-७॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥१-०६१-८॥
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः॥१-०६१-९॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥१-०६१-१०॥
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः॥१-०६१-११॥
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१-०६१-१२॥
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्मा नराधिपः॥१-०६१-१३॥
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः। अशोको नाम राजासीन्महावीर्यपराक्रमः॥१-०६१-१४॥
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः॥१-०६१-१५॥
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१-०६१-१६॥
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः। स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः॥१-०६१-१७॥
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१-०६१-१८॥
सूक्ष्मस्तु मतिमान् राजन्कीर्तिमान्यः प्रकीर्तितः। बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः॥१-०६१-१९॥
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः॥१-०६१-२०॥
इसृपा नाम यस्तेषामसुराणां बलाधिकः। पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः॥१-०६१-२१॥
एकचक्र इति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ॥१-०६१-२२॥
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः॥१-०६१-२३॥
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः॥१-०६१-२४॥
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः। बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ॥१-०६१-२५॥
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः॥१-०६१-२६॥
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः॥१-०६१-२७॥
शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरेष्विह॥१-०६१-२८॥
द्वितीयः शलभस्तेषामसुराणां बभूव यः। प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः॥१-०६१-२९॥
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः॥१-०६१-३०॥
मृतपा इति विख्यातो य आसीदसुरोत्तमः। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम॥१-०६१-३१॥
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१-०६१-३२॥
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः। स विश्व इति विख्यातो बभूव पृथिवीपतिः॥१-०६१-३३॥
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः॥१-०६१-३४॥
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः॥१-०६१-३५॥
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्नाम राजर्षिः स बभूव नराधिपः॥१-०६१-३६॥
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः। काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः॥१-०६१-३७॥
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्। क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः॥१-०६१-३८॥
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः॥१-०६१-३९॥
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः। पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः॥१-०६१-४०॥
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः॥१-०६१-४१॥
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः॥१-०६१-४२॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ॥१-०६१-४३॥
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः॥१-०६१-४४॥
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥१-०६१-४५॥
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥१-०६१-४६॥
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येव स बभूव नराधिपः॥१-०६१-४७॥
तृतीयस्तु महाराज महाबाहुर्महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥१-०६१-४८॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥१-०६१-४९॥
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्तपः॥१-०६१-५०॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥१-०६१-५१॥
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥१-०६१-५२॥
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः। बभूव राजन्धर्मात्मा सर्वभूतहिते रतः॥१-०६१-५३॥
गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः। ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः॥१-०६१-५४॥
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः॥१-०६१-५५॥
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥१-०६१-५६॥
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥१-०६१-५७॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥१-०६१-५८॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥१-०६१-५९॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥१-०६१-६०॥
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥१-०६१-६१॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥१-०६१-६२॥
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥१-०६१-६३॥
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥१-०६१-६४॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥१-०६१-६५॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥१-०६१-६६॥
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥१-०६१-६७॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥१-०६१-६८॥
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥१-०६१-६९॥
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥१-०६१-७०॥
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥१-०६१-७१॥
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥१-०६१-७२॥
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥१-०६१-७३॥
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥१-०६१-७४॥
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥१-०६१-७५॥
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥१-०६१-७६॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥१-०६१-७७॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥ मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥१-०६१-७८॥
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥१-०६१-७९॥
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥१-०६१-८०॥
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः॥ येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥१-०६१-८१॥
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥१-०६१-८२॥
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥१-०६१-८३॥
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥१-०६१-८४॥
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥१-०६१-८५॥
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥१-०६१-८६॥
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥१-०६१-८७॥
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥१-०६१-८८॥
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥१-०६१-८९॥
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥१-०६१-९०॥
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥१-०६१-९१॥
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥१-०६१-९२॥
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥१-०६१-९३॥
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥१-०६१-९४॥
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥१-०६१-९५॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥१-०६१-९६॥
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥१-०६१-९७॥
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥१-०६१-९८॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥१-०६१-९९॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१-०६१-१००॥
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१-०६१-१०१॥
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१-०६१-१०२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.