Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.105
Core:Kunti chooses Pandu in a Swayamvara; Madri, the beautiful, is bought for a price.
वैशम्पायन उवाच॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१-१०५-१॥
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥१-१०५-२॥
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥१-१०५-३॥
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥१-१०५-४॥
सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥ विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥१-१०५-५॥
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥१-१०५-६॥
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥१-१०५-७॥
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥१-१०५-८॥
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥१-१०५-९॥
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१-१०५-१०॥
ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥१-१०५-११॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१-१०५-१२॥
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१-१०५-१३॥
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१-१०५-१४॥
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१-१०५-१५॥
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१-१०५-१६॥
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१-१०५-१७॥
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१-१०५-१८॥
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१-१०५-१९॥
शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥१-१०५-२०॥
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥१-१०५-२१॥
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥१-१०५-२२॥
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते न दूरमिवाध्वानं गत्वा नागपुरालयाः ॥ आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥१-१०५-२३॥
नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥ नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥१-१०५-२४॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥१-१०५-२५॥
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥१-१०५-२६॥
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥१-१०५-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.