Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.106
Core-Pancharatra:Pandu along with his wives goes to the forest retreat for pleasure. Vidura marries Devaka's daughter.
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१-१०६-१॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥१-१०६-२॥
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥१-१०६-३॥
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥१-१०६-४॥
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥१-१०६-५॥
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥१-१०६-६॥
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥१-१०६-७॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥१-१०६-८॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥१-१०६-९॥
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥ देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१-१०६-१०॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥१-१०६-११॥
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१-१०६-१२॥
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१-१०६-१३॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१-१०६-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.