Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.107
Pancharatra:Hundred sons of Dhritarastra.
वैशम्पायन उवाच॥
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१-१०७-१॥
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥१-१०७-२॥
जनमेजय उवाच॥
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥१-१०७-३॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥ आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥१-१०७-४॥
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥१-१०७-५॥
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥१-१०७-६॥
वैशम्पायन उवाच॥
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥१-१०७-७॥
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥१-१०७-८॥
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥१-१०७-९॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥१-१०७-१०॥
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥१-१०७-११॥
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥१-१०७-१२॥
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥१-१०७-१३॥
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥१-१०७-१४॥
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥१-१०७-१५॥
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥१-१०७-१६॥
व्यास उवाच॥
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१-१०७-१७॥
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥१-१०७-१८॥
वैशम्पायन उवाच॥
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥१-१०७-१९॥
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥१-१०७-२०॥
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥१-१०७-२१॥
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥१-१०७-२२॥
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥१-१०७-२३॥
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥१-१०७-२४॥
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥१-१०७-२५॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥१-१०७-२६॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥१-१०७-२७॥
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥१-१०७-२८॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥१-१०७-२९॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥१-१०७-३०॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥१-१०७-३१॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१-१०७-३२॥
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥१-१०७-३३॥
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥१-१०७-३४॥
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥१-१०७-३५॥
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥१-१०७-३६॥
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥१-१०७-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.