Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.116
Core:Pandu's death and Madri's sahagamana.
वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥१-११६-१॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥१-११६-२॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥१-११६-३॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥१-११६-४॥
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥१-११६-५॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥१-११६-६॥
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥१-११६-७॥
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥१-११६-८॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥१-११६-९॥
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥१-११६-१०॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥१-११६-११॥
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥१-११६-१२॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥१-११६-१३॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥१-११६-१४॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥१-११६-१५॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥१-११६-१६॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥१-११६-१७॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥१-११६-१८॥
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥१-११६-१९॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥१-११६-२०॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥१-११६-२१॥
माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥१-११६-२२॥
कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥१-११६-२३॥
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥१-११६-२४॥
माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥१-११६-२५॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥१-११६-२६॥
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥१-११६-२७॥
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥१-११६-२८॥
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥१-११६-२९॥
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥१-११६-३०॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥१-११६-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.