01.117
Pancharatra:The siddhas of Himalaya handover Kunti and her sons, along with the corpse of Pandu and Madri.
वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१-११७-१॥
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥१-११७-२॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥१-११७-३॥
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥१-११७-४॥
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥१-११७-५॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥१-११७-६॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥१-११७-७॥
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥१-११७-८॥
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥१-११७-९॥
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१-११७-१०॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥१-११७-११॥
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१-११७-१२॥
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१-११७-१३॥
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१-११७-१४॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१-११७-१५॥
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१-११७-१६॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१-११७-१७॥
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१-११७-१८॥
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१-११७-१९॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥१-११७-२०॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥१-११७-२१॥
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥१-११७-२२॥
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥१-११७-२३॥
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥१-११७-२४॥
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥१-११७-२५॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥१-११७-२६॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥१-११७-२७॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥१-११७-२८॥
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥१-११७-२९॥
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥१-११७-३०॥
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥१-११७-३१॥
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥१-११७-३२॥
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥१-११७-३३॥