01.122
Core-Pancharatra:Bhishma appoints Drona as teacher for Kurus.
वैशम्पायन उवाच॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥१-१२२-१॥
द्रुपद उवाच॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥१-१२२-२॥
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥१-१२२-३॥
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥१-१२२-४॥
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥१-१२२-५॥
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥१-१२२-६॥
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥१-१२२-७॥
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥१-१२२-८॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥१-१२२-९॥
वैशम्पायन उवाच॥
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥१-१२२-१०॥
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१-१२२-११॥
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥१-१२२-१२॥
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥१-१२२-१३॥
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥१-१२२-१४॥
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥१-१२२-१५॥
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥१-१२२-१६॥
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥१-१२२-१७॥
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥१-१२२-१८॥
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥१-१२२-१९॥
द्रोण उवाच॥
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥१-१२२-२०॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥१-१२२-२१॥
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥१-१२२-२२॥
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥ हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥१-१२२-२३॥
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥१-१२२-२४॥
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥१-१२२-२५॥
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥१-१२२-२६॥
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥ बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥१-१२२-२७॥
स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥१-१२२-२८॥
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥१-१२२-२९॥
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥१-१२२-३०॥
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥१-१२२-३१॥
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन् सङ्गमं चैव वचनं चैव तस्य तत् ॥१-१२२-३२॥
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥१-१२२-३३॥
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥१-१२२-३४॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥१-१२२-३५॥
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥१-१२२-३६॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१-१२२-३७॥
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥१-१२२-३८॥
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥१-१२२-३९॥
शिष्याः इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् ॥१-१२२-४०॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥१-१२२-४१॥
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥१-१२२-४२॥
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥१-१२२-४३॥
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥१-१२२-४४॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥१-१२२-४५॥
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥ वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥१-१२२-४६॥
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥ दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥१-१२२-४७॥