01.123
Pancharatra:Story of Ekalavya and how Arjuna became the greatest archer.
वैशम्पायन उवाच॥
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥१-१२३-१॥
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥१-१२३-२॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥१-१२३-३॥
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥ तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥१-१२३-४॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥१-१२३-५॥
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥१-१२३-६॥
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥१-१२३-७॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥१-१२३-८॥
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥१-१२३-९॥
ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥१-१२३-१०॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥१-१२३-११॥
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥१-१२३-१२॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥१-१२३-१३॥
परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥१-१२३-१४॥
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥१-१२३-१५॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥१-१२३-१६॥
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥१-१२३-१७॥
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥१-१२३-१८॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥१-१२३-१९॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥१-१२३-२०॥
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥१-१२३-२१॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥१-१२३-२२॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥१-१२३-२३॥
एकलव्य उवाच॥
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥१-१२३-२४॥
वैशम्पायन उवाच॥
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥१-१२३-२५॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥१-१२३-२६॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥१-१२३-२७॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥१-१२३-२८॥
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥१-१२३-२९॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥१-१२३-३०॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥१-१२३-३१॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥१-१२३-३२॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥१-१२३-३३॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥१-१२३-३४॥
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥१-१२३-३५॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥१-१२३-३६॥
तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥१-१२३-३७॥
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥१-१२३-३८॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥१-१२३-३९॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥१-१२३-४०॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥ युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥१-१२३-४१॥
प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥१-१२३-४२॥
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥ एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥१-१२३-४३॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥१-१२३-४४॥
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥१-१२३-४५॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥१-१२३-४६॥
द्रोण उवाच॥
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥१-१२३-४७॥
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥१-१२३-४८॥
वैशम्पायन उवाच॥
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥१-१२३-४९॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥१-१२३-५०॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥१-१२३-५१॥
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥१-१२३-५२॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥१-१२३-५३॥
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥१-१२३-५४॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥१-१२३-५५॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥१-१२३-५६॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥१-१२३-५७॥
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥१-१२३-५८॥
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥१-१२३-५९॥
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥१-१२३-६०॥
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥१-१२३-६१॥
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥१-१२३-६२॥
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥१-१२३-६३॥
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥१-१२३-६४॥
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥१-१२३-६५॥
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥१-१२३-६६॥
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥१-१२३-६७॥
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥१-१२३-६८॥
अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥१-१२३-६९॥
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥१-१२३-७०॥
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥ इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥१-१२३-७१॥
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥१-१२३-७२॥
स पार्थ-बाणैः बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥१-१२३-७३॥
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥ अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥१-१२३-७४॥
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥१-१२३-७५॥
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥१-१२३-७६॥
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥१-१२३-७७॥
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥ भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥१-१२३-७८॥