Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.131
Core:Dhritarastra sends Pandavas to Varanavrata.
वैशम्पायन उवाच॥
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥१-१३१-१॥
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥१-१३१-२॥
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥१-१३१-३॥
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥१-१३१-४॥
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥१-१३१-५॥
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥१-१३१-६॥
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥१-१३१-७॥
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥१-१३१-८॥
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥१-१३१-९॥
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१-१३१-१०॥
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥१-१३१-११॥
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१-१३१-१२॥
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१-१३१-१३॥
रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१-१३१-१४॥
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१-१३१-१५॥
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१-१३१-१६॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥१-१३१-१७॥
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१-१३१-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.