Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.153
Core:Setting for Draupadi's svayamvara.
जनमेजय उवाच॥
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१-१५३-१॥
वैशम्पायन उवाच॥
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥१-१५३-२॥
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥१-१५३-३॥
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥१-१५३-४॥
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥१-१५३-५॥
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥१-१५३-६॥
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥१-१५३-७॥
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥१-१५३-८॥
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥१-१५३-९॥
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१-१५३-१०॥
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥१-१५३-११॥
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१-१५३-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.