Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.159
Library:Agaraparna advises Arjuna to take a Brahamna as priest.
अर्जुन उवाच॥
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः। यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥१-१५९-१॥
गन्धर्व उवाच॥
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥१-१५९-२॥
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः। विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥१-१५९-३॥
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम्। गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥१-१५९-४॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम्। इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥१-१५९-५॥
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन। विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥१-१५९-६॥
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा। पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ॥ पितृनेतानहं पार्थ देवमानुषसत्तमान् ॥१-१५९-७॥
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः। भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥१-१५९-८॥
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम्। जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥१-१५९-९॥
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति। धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥१-१५९-१०॥
नक्तं च बलमस्माकं भूय एवाभिवर्धते। यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥१-१५९-११॥
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन। येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥१-१५९-१२॥
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि। यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥१-१५९-१३॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप। नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥१-१५९-१४॥
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे। जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥१-१५९-१५॥
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम्। तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥१-१५९-१६॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः। धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥१-१५९-१७॥
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम्। यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥१-१५९-१८॥
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम्। पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥१-१५९-१९॥
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः। प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥१-१५९-२०॥
न हि केवलशौर्येण तापत्याभिजनेन च। जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥१-१५९-२१॥
तस्मादेवं विजानीहि कुरूणां वंशवर्धन। ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥१-१५९-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.