Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.160
Library:King Samvarana sees Tapati
अर्जुन उवाच॥
तापत्य इति यद्वाक्यमुक्तवानसि मामिह। तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥१-१६०-१॥
तपती नाम का चैषा तापत्या यत्कृते वयम्। कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥१-१६०-२॥
वैशम्पायन उवाच॥
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम्। विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥१-१६०-३॥
गन्धर्व उवाच॥
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्। यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥१-१६०-४॥
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः। तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥१-१६०-५॥
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा। एतस्य तपती नाम बभूवासदृशी सुता ॥१-१६०-६॥
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो। विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥१-१६०-७॥
न देवी नासुरी चैव न यक्षी न च राक्षसी। नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥१-१६०-८॥
सुविभक्तानवद्याङ्गी स्वसितायतलोचना। स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥१-१६०-९॥
न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत। भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥१-१६०-१०॥
सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्। नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ॥१-१६०-११॥
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली। सूर्यमाराधयामास नृपः संवरणः सदा ॥१-१६०-१२॥
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः। नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥१-१६०-१३॥
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥१-१६०-१४॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि। तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥१-१६०-१५॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्। नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥१-१६०-१६॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा। तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥१-१६०-१७॥
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः। तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥१-१६०-१८॥
स सोममति कान्तत्वादादित्यमति तेजसा। बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥१-१६०-१९॥
एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव। तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥१-१६०-२०॥
स कदाचिदथो राजा श्रीमानुरुयशा भुवि। चचार मृगयां पार्थ पर्वतोपवने किल ॥१-१६०-२१॥
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः। ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥१-१६०-२२॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः। ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥१-१६०-२३॥
स एक एकामासाद्य कन्यां तामरिमर्दनः। तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥१-१६०-२४॥
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्। पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥१-१६०-२५॥
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना। स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥१-१६०-२६॥
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः। अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥१-१६०-२७॥
जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः। रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥१-१६०-२८॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा। न चचाल ततो देशाद्बुबुधे न च किञ्चन ॥१-१६०-२९॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्। लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥१-१६०-३०॥
एवं स तर्कयामास रूपद्रविणसम्पदा। कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥१-१६०-३१॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः। जगाम मनसा चिन्तां काममार्गणपीडितः ॥१-१६०-३२॥
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना। अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥१-१६०-३३॥
कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि। कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥१-१६०-३४॥
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता। विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥१-१६०-३५॥
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्। न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥१-१६०-३६॥
या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः। न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥१-१६०-३७॥
एवं तां स महीपालो बभाषे न तु सा तदा। कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ॥१-१६०-३८॥
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा। सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ॥१-१६०-३९॥
तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा। वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥१-१६०-४०॥
अपश्यमानः स तु तां बहु तत्र विलप्य च। निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥१-१६०-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.