Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.158
Library:Encounter of Arjuna with Angaraparna
वैशम्पायन उवाच॥
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः। समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ॥१-१५८-१॥
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम्। आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥१-१५८-२॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः। प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥१-१५८-३॥
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः। ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥१-१५८-४॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्। तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥१-१५८-५॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान्। विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥१-१५८-६॥
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या। अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥१-१५८-७॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्। शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥१-१५८-८॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्। उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥१-१५८-९॥
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः। गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥१-१५८-१०॥
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥१-१५८-११॥
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्। अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥१-१५८-१२॥
अङ्गारपर्णमिति च ख्यतं वनमिदं मम। अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥१-१५८-१३॥
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः। इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥१-१५८-१४॥
अर्जुन उवाच॥
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते। रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ॥१-१५८-१५॥
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः। अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥१-१५८-१६॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता। गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥१-१५८-१७॥
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः। देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥१-१५८-१८॥
तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः। गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥१-१५८-१९॥
असम्बाधा देवनदी स्वर्गसम्पादनी शुभा। कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥१-१५८-२०॥
अनिवार्यमसम्बाधं तव वाचा कथं वयम्। न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥१-१५८-२१॥
वैशम्पायन उवाच॥
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्। मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥१-१५८-२२॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम्। व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ॥१-१५८-२३॥
अर्जुन उवाच॥
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते। अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥१-१५८-२४॥
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये। तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥१-१५८-२५॥
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः। भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥१-१५८-२६॥
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम। स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥१-१५८-२७॥
वैशम्पायन उवाच॥
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह। प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥१-१५८-२८॥
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम्। अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥१-१५८-२९॥
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः। भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥१-१५८-३०॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी। नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥१-१५८-३१॥
गन्धर्व्युवाच॥
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे। गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥१-१५८-३२॥
युधिष्ठिर उवाच॥
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्। को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥१-१५८-३३॥
अर्जुन उवाच॥
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः। प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥१-१५८-३४॥
गन्धर्व उवाच॥
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्। न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥१-१५८-३५॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्। गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥१-१५८-३६॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः। सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥१-१५८-३७॥
सम्भृता चैव विद्येयं तपसेह पुरा मया। निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥१-१५८-३८॥
संस्तम्भितं हि तरसा जितं शरणमागतम्। योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥१-१५८-३९॥
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः। ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥१-१५८-४०॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति। आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥१-१५८-४१॥
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन। तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥१-१५८-४२॥
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम्। अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥१-१५८-४३॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः। अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥१-१५८-४४॥
गन्धर्वजानामश्वानामहं पुरुषसत्तम। भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥१-१५८-४५॥
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः। क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥१-१५८-४६॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥१-१५८-४७॥
ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ॥१-१५८-४८॥
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥१-१५८-४९॥
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः। रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥१-१५८-५०॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः। इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥१-१५८-५१॥
अर्जुन उवाच॥
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा। विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥१-१५८-५२॥
गन्धर्व उवाच॥
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते। जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥१-१५८-५३॥
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्। तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥१-१५८-५४॥
अर्जुन उवाच॥
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ। सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥१-१५८-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.