Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.166
Library: Vishwamitra displays forgiveness even when his sons are killed.
गन्धर्व उवाच॥
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह। इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१-१६६-१॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्। मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥१-१६६-२॥
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्। तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥१-१६६-३॥
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्। शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ॥ ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥१-१६६-४॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्। तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥१-१६६-५॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः। नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥१-१६६-६॥
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः। जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥१-१६६-७॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः। तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥१-१६६-८॥
हंसि राक्षसवद्यस्माद्राजापसद तापसम्। तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥१-१६६-९॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्। गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१-१६६-१०॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः। वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥१-१६६-११॥
तयोर्विवदतोरेवं समीपमुपचक्रमे। ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१-१६६-१२॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः। ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१-१६६-१३॥
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत। तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१-१६६-१४॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः। जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१-१६६-१५॥
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन। विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१-१६६-१६॥
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया। राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥१-१६६-१७॥
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा। विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१-१६६-१८॥
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना। बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१-१६६-१९॥
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः। ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥१-१६६-२०॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा। आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥१-१६६-२१॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्। इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥१-१६६-२२॥
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम्। सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥१-१६६-२३॥
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्। उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥१-१६६-२४॥
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते। अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥१-१६६-२५॥
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित्। निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥१-१६६-२६॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः। अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥१-१६६-२७॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्। गत्वा जहार त्वरितो नरमांसमपेतभीः ॥१-१६६-२८॥
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै। तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥१-१६६-२९॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः। अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥१-१६६-३०॥
यस्मादभोज्यमन्नं मे ददाति स नराधिपः। तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥१-१६६-३१॥
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा। उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥१-१६६-३२॥
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्। रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ॥१-१६६-३३॥
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः। उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥१-१६६-३४॥
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि। तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥१-१६६-३५॥
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः। शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥१-१६६-३६॥
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः। वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥१-१६६-३७॥
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः। भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥१-१६६-३८॥
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान्। धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥१-१६६-३९॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः। न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥१-१६६-४०॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः। शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥१-१६६-४१॥
न ममार च पातेन स यदा तेन पाण्डव। तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥१-१६६-४२॥
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः। दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥१-१६६-४३॥
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः। बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥१-१६६-४४॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः। जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥१-१६६-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.