Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.167
Library: Story of Vashishtha's grandson.
गन्धर्व उवाच॥
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः। निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥१-१६७-१॥
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा। वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥१-१६७-२॥
अथ चिन्तां समापेदे पुनः पौरवनन्दन। अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥१-१६७-३॥
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः। तस्या जले महानद्या निममज्ज सुदुःखितः ॥१-१६७-४॥
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन। समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥१-१६७-५॥
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥१-१६७-६॥
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत। सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥१-१६७-७॥
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा। चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥१-१६७-८॥
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥१-१६७-९॥
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥१-१६७-१०॥
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन्। अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ॥ पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ॥१-१६७-११॥
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत्। अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ॥ शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥१-१६७-१२॥
वसिष्ठ उवाच॥
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः। पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥१-१६७-१३॥
अदृश्यन्त्युवाच॥
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते। समा द्वादश तस्येह वेदानभ्यसतो मुने ॥१-१६७-१४॥
गन्धर्व उवाच॥
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः। अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥१-१६७-१५॥
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ। कल्माषपादमासीनं ददर्श विजने वने ॥१-१६७-१६॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत। आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥१-१६७-१७॥
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः। भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥१-१६७-१८॥
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः। प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥१-१६७-१९॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन। त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥१-१६७-२०॥
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात्। रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥१-१६७-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.