Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.168
Library: King Kalmashapada is released from the curse
वसिष्ठ उवाच॥
मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन। नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥१-१६८-१॥
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि। स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥१-१६८-२॥
गन्धर्व उवाच॥
तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः। वारयामास तेजस्वी हुङ्करेणैव भारत ॥१-१६८-३॥
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा। मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥१-१६८-४॥
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा। ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥१-१६८-५॥
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्। तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ॥१-१६८-६॥
प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः। उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥१-१६८-७॥
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम। अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥१-१६८-८॥
वसिष्ठ उवाच॥
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत्। ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥१-१६८-९॥
राजोवाच॥
नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान्। त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥१-१६८-१०॥
इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम। तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥१-१६८-११॥
अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि। शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥१-१६८-१२॥
गन्धर्व उवाच॥
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह। वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥१-१६८-१३॥
ततः प्रतिययौ काले वसिष्ठसहितोऽनघ। ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥१-१६८-१४॥
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा। विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥१-१६८-१५॥
अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम्। विवेश सहितस्तेन वसिष्ठेन महात्मना ॥१-१६८-१६॥
ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः। पुष्येण सहितं काले दिवाकरमिवोदितम् ॥१-१६८-१७॥
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः। अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥१-१६८-१८॥
संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम्। मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥१-१६८-१९॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन। अशोभत तदा तेन शक्रेणेवामरावती ॥१-१६८-२०॥
ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम्। तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥१-१६८-२१॥
ऋतावथ महर्षिः स सम्बभूव तया सह। देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥१-१६८-२२॥
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः। राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥१-१६८-२३॥
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा। साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥१-१६८-२४॥
द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ। अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥१-१६८-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.