Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.175
Core: Pandavas join the group of Brahmana's travelling, wishing to attend Drupada's swayamwara.
वैशम्पायन उवाच॥
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः। प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥१-१७५-१॥
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः। ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥१-१७५-२॥
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः। क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥१-१७५-३॥
युधिष्ठिर उवाच॥
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः। भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥१-१७५-४॥
ब्राह्मणा ऊचुः॥
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम्। स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥१-१७५-५॥
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः। तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥१-१७५-६॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः। वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥१-१७५-७॥
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी। धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥१-१७५-८॥
यो जातः कवची खड्गी सशरः सशरासनः। सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥१-१७५-९॥
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा। नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥१-१७५-१०॥
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम्। गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥१-१७५-११॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः। स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१-१७५-१२॥
तरुणा दर्शनीयाश्च नानादेशसमागताः। महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥१-१७५-१३॥
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः। प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥१-१७५-१४॥
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्। अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥१-१७५-१५॥
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः। नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१-१७५-१६॥
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च। सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१-१७५-१७॥
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान्। समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ॥१-१७५-१८॥
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः। नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ॥१-१७५-१९॥
युधिष्ठिर उवाच॥
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम्। भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥१-१७५-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.