01.178
Core-Pancharatra: Several kings cannot string the bow.
वैशम्पायन उवाच॥
तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः। अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ॥१-१७८-१॥
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन। समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥१-१७८-२॥
परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः। कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ॥१-१७८-३॥
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम्। चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ॥१-१७८-४॥
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः। रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥१-१७८-५॥
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च। साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥१-१७८-६॥
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च। विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥१-१७८-७॥
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः। प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ॥१-१७८-८॥
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान्। भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥१-१७८-९॥
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ। शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ॥१-१७८-१०॥
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः। व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ॥१-१७८-११॥
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ। तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ॥१-१७८-१२॥
देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम्। दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ॥१-१७८-१३॥
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम्। विमानसम्बाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ॥१-१७८-१४॥
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः। तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ॥१-१७८-१५॥
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः। विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ॥१-१७८-१६॥
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च। कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ॥१-१७८-१७॥
तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु। कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ॥१-१७८-१८॥