Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.177
Core-Pancharatra: List of attendees for Draupadi's Swayamvara.
धृष्टद्युम्न उवाच॥
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः। विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥१-१७७-१॥
युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा। उग्रायुधो बलाकी च कनकायुर्विरोचनः ॥१-१७७-२॥
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः। नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥१-१७७-३॥
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः। कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥ शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥१-१७७-४॥
शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः। एते गान्धारराजस्य सुताः सर्वे समागताः ॥१-१७७-५॥
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ। समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ॥१-१७७-६॥
बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान्। सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ॥१-१७७-७॥
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च। वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥१-१७७-८॥
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा। सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥१-१७७-९॥
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा। अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥१-१७७-१०॥
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्। जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ॥१-१७७-११॥
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्। कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥१-१७७-१२॥
मद्रराजस्तथा शल्यः सहपुत्रो महारथः। रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥१-१७७-१३॥
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः। समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥१-१७७-१४॥
सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः। बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥१-१७७-१५॥
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्। साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥१-१७७-१६॥
अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः। कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥१-१७७-१७॥
विडूरथश्च कङ्कश्च समीकः सारमेजयः। वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ॥ उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥१-१७७-१८॥
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः। बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥१-१७७-१९॥
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ। वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥१-१७७-२०॥
एते चान्ये च बहवो नानाजनपदेश्वराः। त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥१-१७७-२१॥
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम्। विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥१-१७७-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.