Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.179
Core-Pancharatra: Arjuna wins Draupadi.
वैशम्पायन उवाच॥
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि। अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥१-१७९-१॥
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च। दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥१-१७९-२॥
केचिदासन्विमनसः केचिदासन्मुदा युताः। आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥१-१७९-३॥
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः। नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥१-१७९-४॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा। बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥१-१७९-५॥
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु। कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥१-१७९-६॥
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात्। प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥१-१७९-७॥
नावहास्या भविष्यामो न च लाघवमास्थिताः। न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥१-१७९-८॥
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः। पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥१-१७९-९॥
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते। शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥१-१७९-१०॥
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत्। ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥१-१७९-११॥
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः। दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥१-१७९-१२॥
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन्। सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥१-१७९-१३॥
एवं तेषां विलपतां विप्राणां विविधा गिरः। अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥१-१७९-१४॥
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्। प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥१-१७९-१५॥
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान्। विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥१-१७९-१६॥
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः। पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥१-१७९-१७॥
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः। न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥१-१७९-१८॥
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन्। सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ॥१-१७९-१९॥
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः। सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥१-१७९-२०॥
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः। आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥१-१७९-२१॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य। आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥१-१७९-२२॥
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः। रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥१-१७९-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.