Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.180
Core-Pancharatra: Assembled kings oppose Drupada, Krishna identifies Pandavas.
वैशम्पायन उवाच॥
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने। कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥१-१८०-१॥
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान्। दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥१-१८०-२॥
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते। न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्। अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ॥ गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥१-१८०-४॥
अस्मिन्राजसमावाये देवानामिव संनये। किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥१-१८०-५॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति। स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥१-१८०-६॥
अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति। अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥१-१८०-७॥
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम्। विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥१-१८०-८॥
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च। पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥१-१८०-९॥
अवमानभयादेतत्स्वधर्मस्य च रक्षणात्। स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥१-१८०-१०॥
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः। द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ॥१-१८०-११॥
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान्। द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ॥१-१८०-१२॥
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्। पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥१-१८०-१३॥
ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः। जिघांसमानाः कुरुराजपुत्रा; वमर्षयन्तोऽर्जुनभीमसेनौ ॥१-१८०-१४॥
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः। उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ॥१-१८०-१५॥
तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम्। तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ॥१-१८०-१६॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा। दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ॥१-१८०-१७॥
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम्। एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ॥१-१८०-१८॥
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः। वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ॥१-१८०-१९॥
योऽसौ पुरस्तात्कमलायताक्ष; स्तनुर्महासिंहगतिर्विनीतः। गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ॥१-१८०-२०॥
यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः। मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मया श्रुताः पाण्डुसुताः पृथा च ॥१-१८०-२१॥
तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः। प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥१-१८०-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.