Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.181
Core-Pancharatra: Bhima and Arjuna repulse the angered kings.
वैशम्पायन उवाच॥
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः। ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥१-१८१-१॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव। उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥१-१८१-२॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः। वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥१-१८१-३॥
इति तद्धनुरादाय शुल्कावाप्तं महारथः। भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥१-१८१-४॥
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान्। सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥१-१८१-५॥
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः। आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥१-१८१-६॥
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा। युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥१-१८१-७॥
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली। दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ॥ मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः। कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥१-१८१-९॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम्। विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥१-१८१-१०॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ। अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥१-१८१-११॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे। इति शूरार्थवचनैराभाषेतां परस्परम् ॥१-१८१-१२॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि। ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥१-१८१-१३॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा। प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥१-१८१-१४॥
कर्ण उवाच॥
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे। अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥१-१८१-१५॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम। अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥१-१८१-१६॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः। विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥१-१८१-१७॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः। पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥१-१८१-१८॥
वैशम्पायन उवाच॥
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत। नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥ ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥१-१८१-१९॥
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्। स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥१-१८१-२०॥
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत। ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥१-१८१-२१॥
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ। बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥१-१८१-२२॥
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ। मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥ मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥१-१८१-२३॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे। न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥१-१८१-२४॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः। यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥१-१८१-२५॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते। शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥१-१८१-२६॥
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः। विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥१-१८१-२७॥
को हि राधासुतं कर्मं शक्तो योधयितुं रणे। अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥१-१८१-२८॥
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात्। को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥१-१८१-२९॥
तथैव मद्रराजानं शल्यं बलवतां वरम्। बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥१-१८१-३०॥
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात्। अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥१-१८१-३१॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः। निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥१-१८१-३२॥
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः। यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥१-१८१-३३॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता। इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥१-१८१-३४॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः। कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥१-१८१-३५॥
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ। कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥१-१८१-३६॥
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्। अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥१-१८१-३७॥
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः। मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥१-१८१-३८॥
विपरीतं मतं जातं व्यासस्यापि महात्मनः। इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥१-१८१-३९॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः। ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥१-१८१-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.