01.182
Core-Pancharatra: Confusing Draupadi to alms, Kunti asks Pandavas to share equally.
वैशम्पायन उवाच॥
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ। तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ॥१-१८२-१॥
कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे। पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ॥१-१८२-२॥
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम्। पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ॥१-१८२-३॥
इयं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मयि संनिसृष्टा। यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ॥१-१८२-४॥
कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि। पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ॥१-१८२-५॥
मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः। कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ॥१-१८२-६॥
त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री। प्रज्वाल्यतां हूयतां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ॥१-१८२-७॥
अर्जुन उवाच॥
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः। भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ॥१-१८२-८॥
अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः। वृकोदरोऽहं च यमौ च राज; न्नियं च कन्या भवतः स्म सर्वे ॥१-१८२-९॥
एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य। पाञ्चालराजस्य च यत्प्रियं स्या; त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ॥१-१८२-१०॥
वैशम्पायन उवाच॥
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम्। सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥१-१८२-११॥
तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्। सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥१-१८२-१२॥
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम्। बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥१-१८२-१३॥
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः। द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ॥१-१८२-१४॥
अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः। सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥१-१८२-१५॥