Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.188
Pancharatra: Doubt regarding a woman marrying many.
वैशम्पायन उवाच॥
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः। प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥१-१८८-१॥
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः। आसने काञ्चने शुभ्रे निषसाद महामनाः ॥१-१८८-२॥
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा। आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥१-१८८-३॥
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः। पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥१-१८८-४॥
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः। एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥१-१८८-५॥
व्यास उवाच॥
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके। यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥१-१८८-६॥
द्रुपद उवाच॥
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः। न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥१-१८८-७॥
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः। न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥१-१८८-८॥
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति। धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥१-१८८-९॥
धृष्टद्युम्न उवाच॥
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ। ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥१-१८८-१०॥
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन। अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥१-१८८-११॥
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम्। पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥१-१८८-१२॥
युधिष्ठिर उवाच॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः। वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥१-१८८-१३॥
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी। ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥१-१८८-१४॥
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम। गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥१-१८८-१५॥
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति। तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥१-१८८-१६॥
कुन्त्युवाच॥
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः। अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥१-१८८-१७॥
व्यास उवाच॥
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः। न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥१-१८८-१८॥
यथायं विहितो धर्मो यतश्चायं सनातनः। यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥१-१८८-१९॥
वैशम्पायन उवाच॥
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः। करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥१-१८८-२०॥
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः। विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥१-१८८-२१॥
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने। आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥१-१८८-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.