01.187
Core-Pancharatra: Pandavas disclose themselves and wish to wed Draupadi as per dharma.
वैशम्पायन उवाच॥
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्। परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥१-१८७-१॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्। कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥१-१८७-२॥
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान्। मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥१-१८७-३॥
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः। ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥१-१८७-४॥
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत्। अपि नो भागधेयानि शुभानि स्युः परन्तप ॥१-१८७-५॥
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते। इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥१-१८७-६॥
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम। ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥१-१८७-७॥
युधिष्ठिर उवाच॥
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते। ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥१-१८७-८॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः। ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥ याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥१-१८७-९॥
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता। व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ॥ पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥१-१८७-१०॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते। भवान्हि गुरुरस्माकं परमं च परायणम् ॥१-१८७-११॥
वैशम्पायन उवाच॥
ततः स द्रुपदो राजा हर्षव्याकुललोचनः। प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥१-१८७-१२॥
यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः। अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥१-१८७-१३॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा। स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥१-१८७-१४॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्। विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥१-१८७-१५॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्। प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥१-१८७-१६॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि। यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥१-१८७-१७॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः। प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥१-१८७-१८॥
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः। पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥१-१८७-१९॥
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः। ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ॥१-१८७-२०॥
द्रुपद उवाच॥
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम। यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥१-१८७-२१॥
युधिष्ठिर उवाच॥
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति। एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥१-१८७-२२॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः। पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥१-१८७-२३॥
एष नः समयो राजन्रत्नस्य सहभोजनम्। न च तं हातुमिच्छामः समयं राजसत्तम ॥१-१८७-२४॥
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति। आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥१-१८७-२५॥
द्रुपद उवाच॥
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन। नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥१-१८७-२६॥
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः। कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥१-१८७-२७॥
युधिष्ठिर उवाच॥
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्। पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥१-१८७-२८॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः। एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥१-१८७-२९॥
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्। मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ॥१-१८७-३०॥
द्रुपद उवाच॥
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः। कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥१-१८७-३१॥
वैशम्पायन उवाच॥
ते समेत्य ततः सर्वे कथयन्ति स्म भारत। अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥१-१८७-३२॥